प्रथमावृत्तिः
सूत्रम्॥
असंयोगाल्लिट् कित्॥ १।२।५
पदच्छेदः॥
असंयोगात् ५।१ लिट् १।१ ६ कित् १।१ २६ अपित् १।१ ४
अर्थः॥
असंयोगान्तात् धातोः परः अपित् लिट् प्रत्ययः किद्वत् भवति।
उदाहरणम्॥
विभिदतुः, बिभिदुः। चिच्छिदतुः, चिच्छिदुः। ईजतुः, ईजुः।
काशिका-वृत्तिः
असंयोगाल् लिट् कित् १।२।५
अपितिति वर्तते। असंयोगान्ताद् धातोः परो लिट् प्रत्ययः अपित् किद् भवति। बिधिदतुः। बिभिदुः। चिच्छिदतुः। चिच्छिदुः। ईजतुः। ईजुः। असंयोगातिति किम्? संस्रसे। दध्वंसे। अपितित्येव। बिभेद।
लघु-सिद्धान्त-कौमुदी
असंयोगाल्लिट् कित् ४५४, १।२।५
असंयोगात्परोऽपिल्लिट् कित् स्यात्। सिषिधतुः। सिषिधुः। सिषेधिथ। सिषिधथुः। सिषिध। सिषेध। सिषिधिव। सिषिधिम। सेधिता। सेधिष्यति। सेधतु। असेधत्। सेधेत्। सिध्यात्। असेधीत्। असेधिष्यत्। एवम् -- चिती संज्ञाने॥ ४॥ शुच शोके॥ ५॥ गद व्यक्तायां वाचि॥ ६॥ गदति॥
न्यासः
असंयोगाल्लिट् कित्। , १।२।५
धातोरेव लिड् विधीयते, नान्यस्मादिति लिटा सामथ्र्याद्धातुः सन्निधापितः; स चासंयोगग्रहणेन विशिष्यते, विशेषणेन च तदन्तविधिर्भवतीत्याह-- "असंयोगान्ताद्धातोः" इति। यदि तह्र्रसंयोगान्ताद्धातोः परस्य लिटः कित्त्वं विधीयते; तदा "ववृते, ववृधे" इति न सिध्यति, परत्वाद् गुणेन भवितव्यम्। कित्त्वस्यावकाशः -- "ईजतुरीजुः" इति, गुणस्यावकाशः-- "वर्त्तित्वा, वर्धित्वा इति; "ववृते,ववृधे" इत्यादावुभयप्राप्तौ परत्वाद् गुण एव स्यात्, नैतदस्ति; इष्टवाचित्वात्परशब्दस्य, कित्त्वमेवेष्टम्, कित्वमेव परम्, अतस्तदेव भविष्यतीत्यदोषः।
अत्र च यदि "असंयोगात्" इति पर्युदास आश्रीयते, तदा संयोगादन्यस्मिन् गृह्रमाणे नञिवयुक्तन्यायेन (व्या।प।६५) सदृशस्यैव ग्रहणं स्यात्-- संयोगस्य सदृशो योऽन्योऽसहायो हल् इति हलन्तादेव कित्त्वं भविष्यति, नाजन्तात्,ततः "चक्रश्चक्रुः" इति न सिध्यति। तस्मात् प्रसज्यप्रतिषेधोऽयम्, न पर्युदासः-- न चेत् संयोगात् यजादीनां किति"
६।१।१५ इति किति विधीयते, न ङिति।
"बिभिदतुः, बिभिदुः" इति। कित्त्वात् "पुगन्तलघूपधस्य"
७।२।८६ इति गुणाभावः। "सस्त्रंसे, दध्वंसे" इति। कित्त्वाभावात् "अनिदिताम्"
६।४।२४ इत्यरनुनासिकल्लोपो न भवति। "स्त्रन्सु ध्वन्सु अधः पतने" (धा।पा। ७५४-७५५), अनुदात्तेत्वादात्मनेपदम्, "लिटस्तझयोरेशिरेच्"
३।४।८१ इत्येशादेशः। "बिभेदिथ" इति। सिप्,थल्, क्रादिनियमादिट्।
बाल-मनोरमा
असंयोगाल्लिट्कित् ८८, १।२।५
असंयोगाल्लिट्। अपिदिति। "सार्वधातुकमपि" दित्यस्तदनुवृत्तेरिति भावः। "सार्वधातुकमपि" दिति ङितत्वं तु नात्र प्रवर्तते, लिडादेशनामाद्र्धदातुकत्वादिति बोध्यम्। कित्त्वस्य फलमाह-- क्ङिति चेति। द्वित्वादिति। कृ ए स्थिते लिटि धातोरिति द्वित्वात्परत्वादिको बोध्यम्। कित्त्वस्य फलमाह-- क्ङिति चेति। द्वित्वादिति। कृ ए इति स्थिते लिटि धातोरिति द्वित्वं न स्यादिति भावः।
तत्त्व-बोधिनी
असंयोगाल्लिट्कित् ६९, १।२।५
असंयोगादिति किम्?। ममन्थे। अत्र नलोपो न।